Class 10th Sanskrit निबन्ध-लेखन ( संस्कृत )


Class 10th Sanskrit  निबन्ध-लेखन ( संस्कृत )

संस्कृत के सबसे महत्वपूर्ण निबंधों का संग्रह सभी छात्रों के लिए प्रकाशित किया जा रहा है निबंध ओं की सूची नीचे दी गई है हमने अपनी पूरी कोशिश की है कि महत्वपूर्ण निबंध संस्कृत भाषा में संस्कृत के उपलब्ध कराए जा सकें अगर आपको यह पोस्ट उपयोगी लगी हो तो हमें कमेंट में जरूर बताएं

यह पोस्ट सभी छात्रों  9th /10th/11th/12th  के लिए उपयोगी है        Helpexam.in

निबंध संग्रह  सूची 

1.     संस्कृतभाषायाः महत्त्वम्
2.     छात्रजीवनम्
3.    महाकविः (कालिदासः)
4.    पाठशाला
5.    अस्माकं देशः
6.     उद्यानम् 

                                                निबन्ध-रचना

1.                                 संस्कृतभाषायाः महत्त्वम्
  1. संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोत्तमसाहित्यसंयुक्ता चास्ति।
  2.  संस्कृता परिशुद्धा व्याकरणसम्बन्धिदोषादिरहिता संस्कृतभाषेति निगद्यते।
  3.  प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत् ।
  4.  सर्वे जना: संस्कृतभाषाम् एव वदन्ति स्म । 
  5. एषा एव अस्माकं पूर्वजानाम् आर्याणां सुलभा, शोभना, गरिमामयी च वाणी।
  6.  संस्कृतभाषायामेव विश्वसाहित्यस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदाः सन्ति येषां महत्त्वमद्यापि सर्वोपरि वर्तते।
  7.  भास-कालिदास-अश्वघोष-भवभूति-दण्डि-सुबन्धु-बाण-जयदेव प्रभृतयो महाकवयो नाटकाराश्च संस्कृतभाषायाः एव। 
  8. जीवनस्य सर्वसंस्कारेषु संस्कृतस्य प्रयोग: भवति । 
  9. अधुनाऽपि सङ्गणकस्य कृते संस्कृतभाषा अति उपयुक्ता अस्ति । 
  10. संस्कृतभाषैव भारतस्य प्राणभूताभाषा अस्ति ।
  11.  राष्ट्रस्य ऐक्यं च साधयति । 
  12. भारतीय गौरवस्य रक्षणाय एतस्याः
  13. प्रसारश्च सवैरेव कर्त्तव्यः। 
  14. अत एव उच्यते 'संस्कृति: संस्कृताश्रिता ।
 02.                                 छात्रजीवनम्         
  1. छात्रजीवनमेव मानवजीवनस्य प्रभातवेला आधारशिला च वर्तते ।
  2.  समस्तजीवनस्य विकासस्य हासस्य वा कारणम् एतज्जीवनमेवास्ति । 
  3. वस्तुतः विद्यार्थिजीवनं साधनामयं जीवनम् । अध्ययनं परमं तप उच्यते ।
  4.  छात्रजीवने परिश्रमस्य महती आवश्यकता वर्तते । 
  5. यः छात्र: आलस्यं त्यक्त्वा परिश्रमेण विद्याध्ययनं करोति स एव साफल्यं लभते ।
  6.  अतएव छात्रैः प्रातः काले ब्रह्ममुहूर्ते एव उत्थातव्यम्।
  7.  कस्मैचित् कालाय भ्रमणमपि अनिवार्यम् । 
  8. ततः प्रतिनिवृत्य स्नानसन्ध्योपासनादिकं विधाय अध्ययनं कर्त्तव्यम् ।
  9.  तदनन्तरं च लघुसात्विकं भोजनं दुग्धं च गृहीत्वा विद्यालयं गन्तव्यम् ।
  10.  तत्र गत्वा गुरून् नत्वा अध्ययनं कर्त्तव्यम् । 
  11. छात्रै: असत्यवादनं न कदापि कर्त्तव्यम्।
  12. छात्रजीवनं पूर्णत: अनुशासनबद्धं भवति ।
  13.  विद्यार्थिजीवने एव समस्तानां मानवोचितगुणानां विकासो भवति । छात्…
03.                                   महाकविः (कालिदासः)

01.कविकुलशिरोमणि: महाकवि: कालिदासः संस्कृतभाषायाः श्रेष्टतमः कविः अस्ति । 
02. कालिदासःनाटककार:
03. द्वाकाव्यप्रणेता गीतिकाव्यकर्ता (खण्डकाव्यकत्ता) च आसीत् । 
04. तस्य प्रमुखा: ग्रन्था: सन्ति यथा- 
             (अ) त्रीणिनाटकानि-मालविकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्लम् च।
             (ब) महाकाव्यद्वंयम्-रघुवंशम् कुमारसम्भवं च ।
             (स) गीतिकाव्यद्वयम्-मेघदूतं ऋतुसंहारम् च । 
05. कालिदासस्य लोकप्रियतायाः कारणं तस्य प्रसादगुणयुक्ता ललिता शैली अस्ति ।
 06. कालिदासस्य प्रकृतिचित्रणं  अतीवरम्यम् अस्ति । 
07. चरित्रचित्रणे कालिदासः अतीव पटु: अस्ति। 
08. कालिदास: महाराजविक्रमादित्यस्य सभाकविः आसीत् ।
 09.अनुमीयते यत्तस्य जन्मभूमि: उज्जयिनी आसीत् ।
 10. मेघदूते उज्जयिन्याः भव्यं वर्णनं विद्यते ।
 11. कालिदासस्य कृतिषु कृत्रिमतायाः अभावः अस्ति । 
12. कालिदासस्य साहित्ये काव्यसौन्दर्यं रसनिरूपणं च सर्वत्र दृश्यते ।
 13. तस्य सूक्तयः सुधासिक्ताः चेतोहराः सन्ति। 
14. कालिदासस्य उपमाप्रयोग: अपूर्व: अत: साधूच्यते -'उपमा कालिदासस्य ।

04.                                     पाठशाला

यत्र गत्वा बालकाः विद्यां गृहणन्ति तत्स्थानं पाठशालेति कथ्यते । पाठशालां गत्वा बालकाः शिक्षकान् प्रणमन्ति । ततः प्रार्थनां कृत्वां पाठं पठन्ति । मध्यान्हकालेऽवकाशो भवति । तदा सर्वे स्वल्पाहारं कुर्वन्ति । अवकाशस्य समाप्तौ पुनरप्यध्ययनं कुर्वन्ति सर्वे ।

मम कक्षायां पञ्चत्वारिंशत् छात्रा: सन्ति। तत्र काश्चिद बालिका अपि सन्ति । वयं तासु भगिनीवत् स्निह्यामः।

पाठशालायां बहवोऽध्यापका वर्तन्ते । ते सर्वेऽपि स्वविषये प्रवीणा: विद्यन्ते। तेषु केचित्तु महाविद्वांस: सन्ति।

तेऽस्मान् पुत्रवत् मन्यते । मम सहपाठिनोऽपि परिश्रमिणः सच्चरित्राश्च । केचित्तु न केवलमध्ययने प्रत्युत क्रीडासु भाषणकलायाम् अभिनये चापि चतुराः वर्तन्ते। मम पाठशालायां अध्ययनस्यान्ते व्यायामस्य क्रीडनस्य चापि व्यवस्था वर्तते । तत्रैक: पुस्तकालयोऽप्यस्ति। वयं ततः पुस्तकानि आनीय गृहे पठामः । सत्रमध्ये एकदा स्नेहम्मेलनमपि भवति। तदन्ते च पुरस्कार - वितरणं सम्पद्यते।

मम पाठशाला मेऽतीव प्रिया। विद्वान् चरित्रवान् च भूत्वा अहमस्याः कीर्ति वर्धयिष्यामि।

05.                                     अस्माकं देशः

 भारतोऽस्माकं देशः अस्माकं देशोऽति विशालः अस्ति । अस्योत्तरस्यादिशि हिमालयो वर्तते । सागर: अस्थ पादप्रक्षालनं करोति। अस्य भूमिः शस्यश्यामला अस्ति । अस्माकं देशे अनेके: प्रदेशा: सन्ति। अस्माकं देशे अनेका: भाषाः सन्ति। अस्मिन् देशे विभिन्न धर्मावलम्बिन: वर्तन्ते। अस्माकं देशे विविधा: संस्कृतय: सन्ति। परं सर्वासु संस्कृतिषु सादृश्यं वर्तते।।

वयं मातुः औरसाः पुत्रा: इव निवसामः। अस्माकं हृदये भावात्मिकी एकता विद्यते । सङ्कटकाले वयं क्षुद्रभेदान् परित्यज्य देशहितं चिन्तयामः। भारतभूमिः अस्माकं माता अस्ति । वयं भारत भूमे: पुत्रा: स्मः । अस्या: सम्मानं रक्षितुं वयं सदैव तत्पराः स्मः । भारते प्रभूतं अन्नं भवति । भारते अनेकानि ऐतिहासिकस्थलानि सन्ति। भारते गङ्गा-यमुना-गोदावरी-सरस्वती-नर्मदादयः नद्यः प्रवहन्ति ।

विशालं भूमण्डलं व्याप्य अयं देश: एशियामहाद्वीपस्य अन्यतमः राष्ट्र: सञ्जात:

कर्तुम् उद्यता: स्याम।

कथितमस्ति- "जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।।

06.                          उद्यानम् 
  1. उद्यानम् मम गृहस्य समीपम् एकम् उद्यानमस्ति । 
  2. उद्यानस्य हरीतिरमां विलोक्य जना: प्रमुदिता: भवन्ति ।
  3. अत्र बहवः
  4. वृक्षा सन्ति। सर्वे वृक्षा: पंक्तिबद्धरूपेण स्थापिताः सन्ति। 
  5. वृक्षाणां छायासु जनाः विश्राम्यन्ति । 
  6. तेषु नाना प्रकाराणि पुष्पाणि फलानि च विकसन्ति । 
  7. जनाः वृक्षाणां फलानि भक्षयन्ति । 
  8. ते प्रात:काले भ्रमणार्थं अत्र आगच्छन्ति। 
  9. तदा शुद्ध सुवासितः समीरः प्रवहन् जनानाम् मनांसि मोदयति । 
  10. अत्र आगत्य ते स्वास्थ्य लाभमपि कुर्वन्ति । 
  11. प्रातः समये वृक्षेषु स्थितानाम् पक्षिणाम् कलरवं अत्यन्तम् आनन्दितं कगेति । 
  12. उद्यानानि अस्माकं मनांसि मोदन्ते। 
  13. अत्र बालकानाम् क्रीडनाय क्रीडाक्षेत्रमपिं अस्ति।
  14.  उद्यानम् नगरात् प्रदूषणम् वारयति तस्य शोभां वर्धयति च ।
निबन्ध-लेखन ( संस्कृत )
  निबन्ध-लेखन ( संस्कृत )


संस्कृत निबंध पुस्तक PDF ll संस्कृत में निबंध
मम प्रिय भाषा संस्कृत निबंध in Sanskrit ll विद्यालय का निबंध संस्कृत में
मम प्रिय उत्सव संस्कृत निबंध ll मम प्रिय कवि in Sanskrit
संस्कृतस्य महत्वम् in Sanskrit  ll मम प्रिय पुस्तक- संस्कृत निबंध


Use Full Links :- 

संस्कृत निबंध पुस्तक PDF ll संस्कृत में निबंध
मम प्रिय भाषा संस्कृत निबंध in Sanskrit ll विद्यालय का निबंध संस्कृत में
मम प्रिय उत्सव संस्कृत निबंध ll मम प्रिय कवि in Sanskrit
संस्कृतस्य महत्वम् in Sanskrit  ll मम प्रिय पुस्तकसंस्कृत निबंध




Post a Comment

0 Comments